Brihat Jataka - Chapter 01

Brihat Jataka - Chapter 01 #

॥ वराहमिहीरस्य बृहज्जातक ॥ #

प्रथमोऽध्यायः #

राशि प्रभेद #

मूर्तित्वे परिकल्पितः शश भृतो वर्त्मापुनर्जन्मनामात्मेत्यात्म
विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् ।
लोकानां प्रलयोद्भवस्थिति विभुश्चानेकधायः श्रुतौ
वाचं नः सददात्वनेक किरणस्त्रैलोक्यदीपो रविः ॥ १॥

भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये
शब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेष्वपि ।
होरातन्त्र महार्णव प्रतरणे भग्नोद्यमानाम् अहं
स्वल्पं वृत्त विचित्रम् अर्थ बहुलं शास्त्र प्लवं प्रारभे ॥ २॥

होरेत्यहो रात्र विकल्पम् एके वाञ्छन्ति पूर्वापर वर्ण लोपात् ।
कर्माजितं पूर्व भवे सद् आदि यत् तस्य पङ्क्तिं समभिव्यनक्ति ॥ ३॥

कालाङ्गानि वराङ्गमाननम् उरो हृत् क्रोड वासो भृतो बस्तिर्व्यञ्जनम् ऊरु जानु युगुले जङ्घे ततोऽङ्घ्रि द्वयम् ।
मेषाश्वि प्रथमा नवऋक्ष चरणाश्चक्र स्थिताराशयो
राशि क्षेत्र गृहऋक्ष भानि भवनं चैकार्थ सम्प्रत्ययाः ॥ ४॥

मत्स्यौ घटी नृ मिथुनं स गदं स वीणं चापी नरोऽश्व जघनो मकरो मृगास्यः ।
तौली स सस्यदहना प्लवगा च कन्या शेषाः स्वनाम सदृशाः स्वचराश्च सर्वे ॥ ५॥

क्षितिज सित ज्ञ चन्द्ररवि सौम्य सितावनिजाः सुर गुरु मन्द सौरि गुरवश्च गृहांशकपः ।
अज मृग तौलि चन्द्र भवनादि नवांश विधिर्भवन समांशकाधिपतयः स्व गृहात् क्रमशः ॥ ६॥

कुजरविज गुरु ज्ञ शुक्र भागाः पवन समीरण कौर्पि जूक लेयाः । अयुजि युजि तु भे विपर्ययस्थः शसि भवनालि झषान्तम् ऋक्ष सन्धिः ॥ ७॥

क्रिय तावुरि जितुम कुलीर लेय पाथोन जूक कौर्प्याख्याः । तौक्षिकाकोकेरो हृद् रोगश्चान्त्य भं चेत्थम् ॥ ८॥

द्रेष्काण होरा नव भाग सञ्ज्ञास्त्रिंशांशकद्वादश सञ्ज्ञिताश्च ।
क्षेत्रं च यद्यस्य स तस्य वर्गो होरेति लग्नं भवनस्य चार्धम् ॥ ९॥

गोऽजाश्वि कर्कि मिथुनाः स मृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्तैव ।
शीर्षोदयादिन बलाश्च भवन्ति शेषा लग्नं समेत्युभयतः पृथुरोम युग्मम् ॥ १०॥

क्रूरः सौम्यः पुरुष वनिते ते चराग द्वि देहाः प्रागादीशाः क्रिय वृष नृयुक् कर्कटाः स त्रिकोणाः ।
मार्तण्डेन्द्वोरयुजि समभे चन्द्र भान्वोश्च होरे
द्रेष्काणाः स्युः स्व भवन सुत त्रित्रिकोणाधिपानाम् ॥ ११॥

के चित् तु होरां प्रथमां भपस्य वाञ्छन्ति लाभाधिपतेर्द्वितीयाम् ।
द्रेष्काण सञ्ज्ञाम् अपि वर्णयन्ति स्वद्वादशैकादशराशिपानाम् ॥ १२॥

अज वृषभ मृगाङ्गना कुलीरा झष वणिजा च दिवाकरादि तुङ्गाः । दश शिखि मनु युक् तिथीन्द्रियांशैस्त्रि नवक विंशतिभिश्च ते अस्त नीचाः ॥ १३॥

वर्गोत्तमाश्चरगृहादिषु पूर्व मध्य पर्यन्ततः शुभ फला नव भाग सञ्ज्ञाः ।
सिंहो वृष प्रथम षष्ठ हयाङ्ग तौलि कुम्भास्त्रिकोण भवनानि भवन्ति सूर्यात् ॥ १४॥

होरादयस्तनु कुटुम्ब सहोत्थ बन्धु पुत्रारि पत्नी मरणानि शुभास्पदायाः ।
रिःफाख्यम् इत्युपचयान्यरि कर्म लाभदुश्चिक्य सञ्ज्ञित गृहाणि न नित्यम् एके ॥ १५॥

कल्प स्व विक्रम गृह प्रतिभा क्षतानि चित्तोत्थरन्ध्र गुरु मान भव व्ययानि ।
लग्नाच्चतुर्थ निधने चतुरस्र सञ्ज्ञे द्यूनं च सप्तम गृहं दशमऋक्षम् आज्ञा ॥ १६॥

कण्टक केन्द्र चतुष्टय सञ्ज्ञाः सप्तम लग्न चतुर्थ ख भानाम् । तेषु यथाभिहितेषु बलाढ्याः कीट नराम्बु चराः पशवश्च ॥ १७॥

केन्द्रात् परं पणफरं परतस्तु सर्व भापोक्लिमं हिबुकम् अम्बु सुखं च वेश्म ।
जामित्रम् अस्त भवनं त्रिकोणं मेषूरणं दशमम् अत्र च कर्म विद्यात् ॥ १८॥

होरा स्वामि गुरु ज्ञ वीक्षितयुता नान्यैश्च वीर्योत्कटा केन्द्रस्था द्वि पदादयोऽह्नि निशि च प्राप्ते च सन्ध्याद्वये ।
पूर्वार्धे विषयादयः कृत गुणा मानं प्रतीपं च
तद्दुश्चिक्यं सहजं तपश्च नवमं त्र्याद्यां त्रिकोणं च तत् ॥ १९॥

रक्तः श्वेतः शुक तनु निभः पाटलो धूम्र पाण्डुश्चित्रः कृष्णः कनक सदृशः पिङ्गलः कर्बुरश्च ।
बभ्रुः स्वच्छः प्रथम भवनाद्येषु वर्णाः प्लवत्वं
स्वाम्याशाख्यं दिन करयुताद् भाद् द्वितीयं च वेशिः ॥ २०॥