Brihat Jataka - Chapter 05

Brihat Jataka - Chapter 05 #

पञ्चमोऽध्याय
जन्मविधि

पितुर्जातः परोक्षस्य लग्नम् इन्दावपश्यति ।
विदेशस्थस्य चर भे मध्याद् भ्रष्टे दिवा करे ॥ १॥

उदयस्थेऽपि वा मन्दे कुजे वास्तं समागते
स्थिते वान्तः क्षपा नाथे शशाङ्क सुत शुक्रयोः ॥ २॥

शशाङ्के पाप लग्ने वा वृश्चिकेश त्रि भागगे ।
शुभैः स्वाय स्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा ॥ ३॥

चतुष्पाद गते भानौ शेषैर्वीर्य समन्वितैः ।
द्वि तनुस्थैश्च यमलौ भवतः कोश वेष्टितौ ॥ ४॥

छागे सिंहे वृषे लग्ने तत्स्थे सौरे अथ वा कुजे ।
राश्यंश सदृशे गात्रे जायते नाल वेष्टितः ॥ ५॥

न लग्नम् इन्दुं च गुरुर्निरीक्षते न वा शशाङ्कं रविणा समागतम् ।
स पापकोऽर्केणयुतोऽथ वा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ ६॥

क्रूरऋक्ष गतावशोभनौ सूर्याद् द्यून नवात्मज स्थितौ ।
बद्धस्तु पिता विदेशगः स्वे वा राशि वशाद् अथो पथि ॥ ७॥

पूर्णे शशिनि स्वराशिगे सौम्ये लग्न गते शुभे सुखे ।
लग्ने जलजे अस्तगे अपि वा चन्द्रो पोत गता प्रसूयते ॥ ८॥

आप्योदयम् आप्यगः शशी सम्पूर्णः समवेक्षते अथ वा ।
मेषूरण बन्धु लग्नगः स्यात् सूतिः सलिले न संशयः ॥ ९॥

उदयोडुपयोर्व्यय स्थिते गुप्त्यां पाप निरीक्षिते यमे
अलि कर्कि युते विलग्नगे सौरे शीत करेक्षिते वटे ॥ १०॥

मन्दे अब्ज गते विलग्नगे बुध सूर्येन्दु निरीक्षिते क्रमात् ।
क्रीडा भवने सुरालये सोखर भूमिषु च प्रसूयते ॥ ११॥

नृ लग्नगं प्रेक्ष्य कुजः श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे ।
रविर्नरेन्द्रामरगो कुलेषु शिल्पालये ज्ञः प्रसवं करोति ॥ १२॥

राश्यंश स मान गोचरे मार्गे जन्म चरे स्थिरे गृहे ।
स्वऋक्षांश गते स्व मन्दिरे बलयोगात् फलम् अंशकऋक्षयोः ॥ १३॥

आरार्कजयोस्त्रिकोणगे चन्द्रे अस्ते च विसृज्यते अम्बया ।
दृष्टे अमरराज मन्त्रिणा दीर्घायुः सुख भाक् च स स्मृतः ॥ १४॥

पापेक्षिते तुहिनगावुदये कुजे अस्ते त्यक्तो विनश्यति कुजार्कजयोस्तथाये ।
सौम्ये अपि पश्यति तथा विध हस्तम् एति सौम्येतरेषु पर हस्त गतोऽप्यनायुः ॥ १५॥

पितृमातृगृहेषु तद्बलात् तरु शालादिषु नीचगैः शुभः ।
यदि नैक गतैस्तु वीक्षितौ लग्नेन्दू विजने प्रसूयते ॥ १६॥

मन्दऋक्षांशे शशिनि हिबुके मन्ददृष्टे अब्जगे वा ।
तद् युक्ते वा तमसि शयने नीच संस्थैश्च भूमौ ।
यद् वद् राशिर्व्रजति हरिजं गर्भ मोक्षस्तु तद्वत् पापैश्चन्द्रात्
स्मर सुख गतैः क्लेशम् आहुर्जनन्याः ॥ १७॥

स्नेहः शशाङ्काद् उदयाच्च वर्तिर्दीपोऽर्कयुक्तऋक्ष वशाच्चराद्यः ।
द्वारं च तद्वास्तुनि केन्द्र संस्थैर्ज्ञेयं ग्रहैः वीर्य समन्वितैर्वा ॥ १८॥

जीर्णं संस्कृतम् अर्कजे क्षिति सुते दग्धं नवं शीतगौ
काष्ठाढ्यं न दृढं रवौ शशि सुते तन् नैक शिल्प्युद्भवम् |
रम्यं चित्रयुतं नवं च भृगुजे जीवे दृढं मन्दिरं
चक्रस्थैश्च यथोपदेशरचनां सामन्त पूर्वां वदेत् ॥ १९॥

मेष कुलीर तुलालि गटैः प्रागुत्तरतो गुरु सौम्य गृहेषु ।
पश्चिमतश्च वृषेण निवासो दक्षिण भाग करौ मृग सिंहौ ॥ २०॥

प्राच्यादि गृहे क्रियादयो द्वौ द्वौ कोण गता द्वि मूर्तयः ।
शय्यास्वपि वास्तु वद् वदेत् पादैः षट् त्रि नवान्त्य संस्थितैः ॥ २१॥

चन्द्र लग्नान्तर गतैर्ग्रहैः स्युरुपसूतिकाः ।
बहिरन्तर चक्राद् अर्धे दृश्याद्ऱ्श्ये अन्यथा परैः ॥ २२॥

लग्न नवांशप तुल्य तनुः स्याद् वीर्ययुत ग्रह तुल्य वपुर्वा ।
चन्द्र समेत नवांशप वर्णः कादि विलग्न विभक्त भ गात्रः ॥ २३॥

कं दृक् श्रोत्र नसा कपोल हनवो वक्त्रं च होरादयस्ते
कण्ठांसक बाहु पार्श्व हृदय क्रोडानि नाभिस्ततः ।
बस्तिः शिश्न गुदे ततश्च वृषणावूरू ततो जानुनी ।
जङ्घाङ्घ्रीत्युभयत्र वामम् उदितैर्द्रेष्काण भागैस्त्रिधा ॥ २४॥

तस्मिन् पापयुतं व्रणे शुभयुते दृष्टे च लक्ष्मादिशेत्
स्वऋक्षांशे स्थिर संयुतेषु सहजः स्याद् अन्यथाङ्गतुकः ।
मन्देश्मानिलजोऽग्नि शास्त्र विषजो भौमे बुधे भू भवः सूर्ये काष्ठ
चतुष्पदेन हिमगौ शृङ्ग्यब्जजोऽन्यैः शुभम् ॥ २५॥

समनुपतिता यस्मिन् भागे त्रयः स बुधा ग्रहा भवति नियमात् तस्यावाप्तिः शुभेष्वशुभेषु वा ।
व्रण कृद् अशुभः षष्ठे देहे तनोर्भ समाश्रिते तिलकम्
अशकृद् दृष्टः सौम्यैर्युतश्च स लक्ष्मवान् ॥ २६॥