Brihat Jataka - Chapter 15

Brihat Jataka - Chapter 15 #

पञ्चदशोऽध्यायः
प्रव्रज्यायोग

एकस्थैश्चतुरादिभिर्बलयुतैर्जाताः पृथग् वीर्यगैः शाक्या जीविक भिक्षु वृद्ध चरका निर्ग्रन्थ वन्याशनाः ।
माहेय ज्ञ गुरु क्षपा कर सित प्राभाकरीनैः क्रमात् प्रव्रज्या बलिभिः समा परजितैस्तत् स्वामिभिः प्रच्युतिः ॥ १॥

रवि कुप्त करैरदीक्षिता बलिभिस्तद्गत भक्तयो नराः ।
अभियाचित मात्रदीक्षिता निहतैरन्य निरीक्षितैरपि ॥ २॥

जन्मेशोऽन्यैर्यद्यदृष्टोऽर्क पुत्रं पश्यत्यार्किर्जन्मपं वा बलोनम् ।
दीक्षां प्राप्नोत्यार्कि दृक् काण संस्थे भौमार्क्यंशे सौरदृष्टे च चन्द्रे ॥ ३॥

सुर गुरु शशि होरा स्वार्के दृष्टासु धर्मे गुरुरथ नृपतीनां योगजस्तीर्थ कृत् स्यात् ।
नवम भवन संस्थे मन्दगे अन्यैर्दृष्टे भवति नरपयोगे दीक्षितः पार्थिवेन्द्रः ॥ ४॥