Brihat Jataka - Chapter 22

Brihat Jataka - Chapter 22 #

द्वाविंशोऽध्यायः
प्रकीर्णक

स्वऋक्ष तुङ्ग मूल त्रिकोणगाः कण्टकेषु यावन्ताश्रिताः ।
सर्वैव ते अन्योन्य कारकाः कर्मगस्तु तेषां विशेषतः ॥ १॥

कर्कटोदय गते यथोडुपे स्वोच्चगाः कुजयमार्क सूरयः ।
कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्बराम्बुगः ॥ २॥

स्व त्रिकोणोच्चगो हेतुरन्योन्यं यदि चर्मगः ।
सुहृत् तद्गुण सम्पन्नः कारकश्चापि स स्मृतः ॥ ३॥

शुभं वर्गोत्तमे जन्म वेशि स्थाने च सद् गृहे ।
अशून्येषु च केन्द्रेषु कारकाख्य ग्रहेषु च ॥ ४॥

मध्ये वयसः सुख प्रदाः केन्द्रस्था गुरु जन्म लग्नपाः ।
पृष्ठोभयकोदयऋक्षगास्त्वन्ते अन्तः प्रथमेषु पाकदाः ॥ ५॥

दिन कररुधिरौ प्रवेष काले गुरु भृगुजौ भवनस्य मध्ययातौ ।
रवि सुत शशिनौ विनिर्गमस्थौ शशि तनयः फलदस्तु सर्व कालम् ॥ ६॥