Brihat Jataka - Chapter 02

Brihat Jataka - Chapter 02 #

द्वितीयोऽध्यायः
ग्रह भेद

कालात्मादिन कृन् मनस्तुहिनगुः सत्वं कुजो ज्ञो वचो
जीवो ज्ञान सुखे सितश्च मदनो दुःखं दिनेशात्मजः ।
राजानौ रवि शीतगू क्षित सुतो नेता कुमारो बुधः
सूरिर्दानव पूजितश्च सचिवौ प्रेष्यः सहस्रांशुजः ॥ १॥

हेलिः सूर्यश्चन्द्रमाः शीतरश्मिर्हेम्नो विज् ज्ञो बोधनश्चेन्दु पुत्रः ।
आरो वक्रः क्रूरदृक् चावनेयः कोणो मन्दः सूर्य पुत्रोऽसितश्च ॥ २॥

जीवोऽङ्गिराः सुर गुरुर्वचसां पतीज्यः शुक्रो भृगुर्भृगुसुतः सितास्फुजिच्च ।
राहुस्तमोऽगुरसुरश्च शिखीति केतुः पर्यायम् अन्यम् उपलभ्य वदेच्च लोकात् ॥ ३॥

रक्त श्यामो भास्करो गौरेन्दुर्नात्युच्चाङ्गो रक्त गौरश्च वक्रः ।
दूर्वा श्यामो ज्ञो गुरुर्गौर गात्रः श्यामः शुक्रो भास्करिः कृष्णदेहः ॥ ४॥

वर्णास्ताम्र सितातिरक्त हरित व्यापीत चित्रासिता ।
बहून्यम्ब्वग्निज केशवेन्द्र शचिकाः सूर्यादि नाथाः क्रमात् ।
प्रागाद्यारवि शुक्र लोहित तमः सौरेन्दु वित् सूरयः क्षीणेन्द्वर्क
मही सुतार्क तनयाः पापा बुधस्तैर्युतः ॥ ५॥

बुध सूर्य सुतौ नपुंसकाखौ शशि शुक्रौ युवती नराश्च शेषाः ।
शिखिभू ख पयो मरुद् गणानां वशिनो भूमि सुतादयः क्रमेण ॥ ६॥

विप्रादितः शुक्र गुरू कुजार्कौ शशी बुधश्चेत्यसितान्त्यजानाम् ।
चन्द्रार्क जीवा ज्ञ सितौ कुजार्की यथा क्रमं सत्वरजस्तमांसि ॥ ७॥

मधु पिङ्गलदृक् चतुरस्र तनुः पित्त प्रकृतिः सविताल्प कचः ।
तनु वृत्त तनुर्बहु वात कफः प्राज्ञश्च शशी मृदु वाक् शुभदृक् ॥ ८॥

क्रूरदृक् तरुण मूर्तिरुदारः पैत्तिकः सुचपलः कृश मध्यः ।
श्लिष्टवाक् सतत हास्यरुचिर्ज्ञः पित्त मारुत कफ प्रकृतिश्च ॥ ९॥

बृहत् तनुः पिङ्गल मूर्धजेक्षणो बृहस्पतिः श्रेष्ठ मतिः कफात्मकः ।
भृगुः सुखी कान्त वपुः सुलोचनः कफानिलात्मासित वक्र मूर्धजः ॥ १०॥

मन्दोऽलसः कपिलदृक् कृशदीर्घ गात्रः स्थूलद्विजः परुषरोम कचोऽनिलात्मा ।
स्नाय्वस्थ्यसृक् त्वग् अथ शुक्र वसे च मज्जा मन्दार्क चन्द्र बुध शुक्र सुरेज्य भौमाः ॥ ११॥

देवाम्ब्वग्नि विहार कोश शयन क्षित्युत्करेशाः क्रमात् ।
वस्त्रं स्थूलम् अभुक्तम् अग्निक हतं मध्यं दृढं स्फाटितम् ।
ताम्रं स्यान् मणि हेमयुक्ति रजतान्यर्काच्च मुक्तायसी ।
द्रेष्काणैः शिशिरादयः शशु रुच ज्ञ ग्वादिषूद्यत्सु वा ॥ १२॥

त्रि दश त्रिकोण चतुरस्र सप्तमान्यवलोकयन्ति चरणाभिवृद्धितः ।
रविजामरेज्यरुधिराः परे च ये क्रमशो भवन्ति किल वीक्षणे अधिकाः ॥ १३॥

अयन क्षण वासरऋतवो मासोऽर्धं च समाश्च भास्करात् ।
कटुक लवण तिक्त मिश्रिता मधुराम्लौ च कषायेत्यपि ॥ १४॥

जीवो जीव बुधौ सितेन्दु तनयौ व्यर्का विभौमाः क्रमाद्
वीन्द्वर्का विकुजेन्द्विनाश्च सुहृदः केषां चिद् एवं मतम् ।
सत्योक्ते सुहृदस्त्रिकोण भवनात् स्वात् स्वान्त्यधी धर्मपाः
स्वोच्चायुः सुखपाः स्वलक्षण विधेर्नान्यैर्विरोधाद् इति ॥ १५॥

शत्रू मन्द सितौ समश्च शशिजो मित्राणि शेषारवेस्-
तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषाः समाः शीतगोः ।
जीवेन्दूष्ण कराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौ
मित्रे सूर्य सितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥ १६॥

सूरः सौम्य सितावरी रवि सुतो मध्योऽपरे त्वन्यथा
सौम्यार्की सुहृदौ समौ कुज गुरू शुक्रस्य शेषावरी ।
शुक्रजौ सुहृदौ समः सुर गुरुः सौरस्य चान्ये अरयो
ये प्रोक्ताः स्व त्रिकोण भादिषु पुनस्ते अमी मया कीर्तिताः ॥ १७॥

अन्योन्यस्यधन व्ययाय सहज व्यापार बन्धु स्थितास्तत् काले
सुहृदः स्व तुङ्ग भवने अप्येके अरयस्त्वन्यथा ।
द्व्येकानुक्त भपान् सुहृत् समरिपून् सञ्चिन्त्य नैसर्गिकांस्तत् काले च
पुनस्तु तान् अधिसुहृन् मित्रादिभिः कल्पयेत् ॥ १८॥

स्वोच्च सुहृत् स्व त्रिकोण नवांशैः स्थान बलं स्व गृहोपगतैश्च ।
दिक्षु बुधाङ्गिरसौ रवि भौमौ सूर्य सुतः सित शीत करौ च ॥ १९॥

उदग् अयने रवि शीत मयूखौ वक्र समागमगाः परिशेषाः ।
विपुल करा युधि चोत्तर संस्थाश्चेष्टित वीर्ययुता परिकल्प्याः ॥ २०॥

निशि शशि कुज सौराः सर्वदा ज्ञोऽह्नि चान्ये ।
बहुल सित गताः स्युः क्रूर सौम्याः क्रमेण ।
द्व्ययनदिवस होरा मासपैः काल वीर्यं
शरु बु गु शु च साद्या वृद्धितो वीर्यवन्तः ॥ २१॥