Brihat Jataka - Chapter 04

Brihat Jataka - Chapter 04 #

चतुर्थोऽध्यायः
निषेका

कुजेन्दु हेतुः प्रतिमासम् आर्तवं गते तु पीडऋक्षम् अनुष्णदिधितौ ।
अतोऽन्यथास्थे शुभ पुङ्ग्रहेक्षिते नरेण संयोगम् उपैति कामिनी ॥ १॥

यथास्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुन प्रयोगः ।
असद् ग्रहालोकित संयुते अस्ते सरोषेष्टैः स विलास हासः ॥ २॥

रवीन्दु शुक्रावनिजैः स्वभागगैर्गुरौ त्रिकोणोदय संस्थितेऽपि वा ।
भवत्यपत्यं हि विबीजिनाम् इमे करा हिमांशोर्विदृशाम् इवाफलाः ॥ ३॥

दिवाकरेन्द्वोः स्मरगौ कुजार्कजौ गद प्रदा पुङ्गलयोषितोस्तदा ।
व्यय स्वगौ मृत्युकरौ युतौ तथा तदेकदृष्ट्या मरणाय कल्पितौ ॥ ४॥

दिवार्क शुक्रौ पितृ मातृ सञ्ज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् ।
पितृव्य मातृ स्वसृ सञ्ज्ञितौ च तावथौजयुग्मऋक्ष गतौ तयोः शुभौ ॥ ५॥

अभिलषद्बिरुदयऋक्षम् असद्भिर्मरणम् एति शुभदृष्टिम् अयाते ।
उदयराशि सहिते च यमे स्त्री विगलितोडु पति भू सुतदृष्टे ॥ ६॥

पापद्वय मध्य संस्थितौ लग्नेन्दू न च सौम्य वीक्षितौ ।
युगपत् पृथग् एव वा वदेन् नारी गर्भयुता विपद्यते ॥ ७॥

क्रूरे शशिनश्चतुर्थगे लग्नाद् वा निधनाश्रिते कुजे ।
बन्ध्वन्त्यगयोः कुजार्कयोः क्षीणेन्दौ निधनाय पूर्ववत् ॥ ८॥

उदयास्तगयोः कुजार्कयोर्निधनं शस्त्र कृतं वदेत् तथा ।
मासाधिपतौ निपीडिते तत् काले स्रवणं समादिशेत् ॥ ९॥

शशाङ्क लग्नोपगतैः शुभ ग्रहैस्त्रिकोण जायार्थ सुखास्पद स्थितैः ।
तृतीय लाभऋक्ष गतैश्च पापकैः सुखी तु गर्भो रविणा निरीक्षितः ॥ १०॥

ओजऋक्षे पुरुषांशकेषु बलिभिर्लग्नार्क गुर्विन्दुभिः
पुञ्जन्म प्रवदेत् समांशक गतैर्युग्मेषु तैर्योषितः ।
गुर्वर्कौ विषमे नरं शशि सितौ वक्रश्च युग्मे स्त्रियं ।
द्व्यङ्गस्थ बुध वीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥ ११॥

विहाय लग्नं विषमऋक्ष संस्थः सौरोऽपि पुञ्जन्म करो विलग्नात् ।
प्रोक्त ग्रहाणाम् अवलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥ १२॥

अन्योन्यं यदि पश्यतः शशि रवी यद्यर्कि सौम्यावपि
वक्रो वा समगं दिनेशम् असमे चन्द्रोदयौ चेत् स्थितौ ।
युग्मौजऋक्ष गतावपीन्दु शशिजौ भूम्यात्मजेनेक्षितौ
पुम्भावे सित लग्न शीत किरणाः षट् क्लीबयोगाः स्मृताः ॥ १३॥

युग्मे चन्द्र सितौ तथौज भवने स्युर्ज्ञार जीवोदया
लग्नेन्दू नृ निरीक्षितौ च समगौ युग्मेषु वा प्राणिनः ।
कुर्युर्ते मिथुनं ग्रहोदय गतान् द्व्यङ्गांशकान् पश्यति
स्वांशे ज्ञे त्रितयं ज्ञगांशक वशाद् युग्मं त्वमिश्रैः समम् ॥ १४॥

धनुर्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्ठैः ।
ज्ञेनार्किणा वीर्ययुतेनदृष्टैः सन्ति प्रभूतापि कोश संस्थाः ॥ १५॥

कलल घनाङ्कुरास्थि चर्माङ्गज चेतनताः सित कुज जीव सूर्य चन्द्रार्कि बुधाः परतः ।
उदयप चन्द्र सूर्य नाथाः क्रमशो गदिता भवन्ति शुभाशुभं च मासाधिपतेः सदृशम् ॥ १६॥

त्रिकोणगे ज्ञे विबलैस्तथा परैर्मुखाङ्घ्रि हस्तैर्द्विगुणस्तदा भवेत् ।
अवाग् गवीन्दावशुभैर्भ सन्धिगैः शुभेक्षितश्चेत् कुरुते गिरं चिरात् ॥ १७॥

सौम्यऋक्षांशे रविजरुधिरौ चेत् स दन्तोऽत्र जातः
कुब्जः स्वऋक्षे शशिनि तनुगे मन्द माहेयदृष्टे ।
पङ्गुर्मीने यम शशि कुजैर्वीक्षिते लग्न संस्थे सन्धौ पापे
शशिनि च जडः स्यान् न चेत् सौम्यदृष्टः ॥ १८॥

सौर शशाङ्कदिवा करदृष्टे वामनको मकरान्त्य विलग्ने ।
धी नवमोदयगैश्च दृकाणैः पापयुतैरभुजाङ्घ्रि शिराः स्यात् ॥ १९॥

रवि शशि युते सिंहे लग्ने कुजार्कि निरीक्षिते नयनरहितः सौम्यासौम्यैः स बुद्बुद लोचनः ।
व्यय गृह गतश्चन्द्रो वामं हिनस्त्यपरं रविर्न शुभ
गदिता योगा याप्या भवन्ति शुभेक्षिताः ॥ २०॥

तत् कालम् इन्दु सहितो द्वि रसांशको यस्तत् तुल्यराशि सहिते पुरतः शशाङ्के ।
यावान् उदेति दिनरात्रि स मान भागस्तावद् गते दिन निशोः प्रवदन्ति जन्म ॥ २१॥

उदयति मृदु भांशे सप्तमस्थे च मन्दे यदि भवति निषेकः सूतिरब्द त्रयेण ।
शशिनि तु विधिरेष द्वादशे अब्दे प्रकुर्यान् निगदितम् इह चिन्त्यं सूति काले अपि युक्त्या ॥ २२॥