Brihat Jataka - Chapter 03 #
तृतीयोऽध्यायः
वियोनिजन्म
चन्द्रोपग द्वि रस भाग स मानरूपं सत्वं वदेद् यदि भवेत् स वियोनि सञ्ज्ञः ॥ १॥
पापा बलिनः स्व भागगाः पारक्ये विबलाश्च शोभनाः ।
लग्नं च वियोनि सञ्ज्ञकं दृष्ट्वात्रापि वियोनिम् आदिशेत् ॥ २॥
क्रियः शिरो वक्र गले वृषोऽन्ये पादांशकं पृष्ठम् उरोऽथ पार्श्वे ।
कुक्षिस्त्वपानाङ्घ्र्याथ मेढ्र मुष्कौ स्फिक् पुच्छम् इत्याह चतुष्पदाङ्गे ॥ ३॥
लग्नांशकाद् ग्रहयोगेक्षणाद् वा वर्णान् वदेद् बलयुक्ता द्वि योनौ ।
दृष्ट्या स मानान् प्रवदेत् स्व सङ्ख्यया रेखां वदेत् स्मर संस्थैश्च पृष्ठे ॥ ४॥
खगे दृकाणे बलसंयुतेन वा ग्रहेणयुक्ते चरभांशकोदये ।
बुधांशके वा विहगाः स्थलाम्बुजाः शनैश्चरेन्द्वीक्षणयोग सम्भवाः ॥ ५॥
होरेन्दु सूरि रविभिर्विबलैस्तरुणां तोये स्थले तरु भवांश कृतः प्रभेदः ।
लग्नाद् ग्रहः स्थल जलऋक्ष पतिस्तु यावांस्तावन्तैव तरवः स्थल तोय जाताः ॥ ६॥
अन्तः साराञ् जनयति रविर्दुर्भगान् सूर्य सूनुः
क्षीरोपेतांस्तुहिन किरणः कण्टकाढ्यांश्च भौमः ।
वाग् ईश ज्ञौ स फल विफलान् पुष्प वृक्षांश्च शुक्रः
स्निग्धान् इन्दुः कटुक विटपान् भूमि पुत्रश्च भूयः ॥ ७॥
शुभो शुभऋक्षे रुचिरं कुभूमिजं करोति वृक्षं विपरीतम् अन्यथा
परांशके यावति विच्युतः स्वकाद् भवन्ति तुल्यास्तरवस्तथा विधाः ॥ ८॥