Brihat Jataka - Chapter 17 #
सप्तदशोऽध्यायः (audio16)
चन्द्रराशिशील
सेवाज्ञः कनखी व्रणाङ्कित शिरा मानी सहोत्थाग्रजः शक्त्या पाणि तले अङ्कितोऽतिचपलस्तोये अतिभीरुः क्रिये ॥ १॥
कान्तः खेल गतिः पृथु ऊरु वदनः पृष्ठास्य पार्श्वाङ्कितस्त्यागी क्लेश सहः प्रभुः ककुदवान् कन्या प्रजः श्लेष्मलः
पूर्वैर्बन्धु धनात्मजैर्विरहितः सौभाग्ययुक्तः क्षमी दीप्ताग्निः प्रमदा प्रियः स्थिर सुहृन् मध्यान्त्य सौख्यो गवि ॥ २॥
स्त्री लोलः सुरतोपचार कुशलस्ताम्रेक्षणः शास्त्रविद् दूतः कुञ्चित मूर्धजः पटु मतिर्हास्येङ्गितद्यूतवित् ।
चार्वङ्गः प्रिय वाक् प्रभ क्षणरुचिर्गीत प्रियो नृत्यवित् क्लीबैर्याति रतिं समुन्नत नसश्चन्द्रे तृतीयऋक्षगे ॥ ३॥
आवक्रद्रुतगः समुन्नत कटिः स्त्री निर्ज्जितः सत् सुहृद् दैवज्ञः प्रचुरालय क्षयधनैः संयुज्यते चन्द्रवत् ।
ह्रस्वः पीन गलः समेति च वंश साम्ना सुहृद् वत्सलस्तोयोद्यानरतः स्व वेश्म सहिते जातः शशाङ्के नरः ॥ ४॥
तीक्ष्णः स्थूल हनुर्विशाल वदनः पिङ्गेक्षणोऽल्पात्मजः स्त्री द्वेषी प्रिय मांस कानन नगः कुप्यत्यकार्ये चिरम् ।
क्षुत् तृणोदरदन्त मानसरुजा सम्पीडितस्त्यागवान् विक्रान्तः स्थिरधीः सुगर्वित मना मातुर्विधेयोऽर्क भे ॥ ५॥
व्रीडा मन्थर चारु वीक्षण गतिः स्रस्तांस बाहुः सुखी श्लक्ष्णः सत्यरतः कलासु निपुणः शास्त्रार्थविद् धार्मिकः ।
मेधावी सुरत प्रियः पर गृहैर्वित्तैश्च संयुज्यते कन्यायां परदेशगः प्रिय वचाः कन्या प्रजोऽल्पात्मजः ॥ ६॥
देव ब्राह्मण साधु पूजनरतः प्राज्ञः शुचिः स्त्री जितः प्रांशुश्च उन्नत नासिकः कृश चलद् गात्रोऽटनोऽर्थान्वितः
हीनाङ्गः क्रय विक्रयेषु कुशलो देवद्वि नामा सरुक् बन्धूनाम् उपकार कृद् विरुषितस्त्यक्तस्तु तैः सप्तमे ॥ ७॥
पृथुल नयन वक्षा वृत्त जङ्घोरु जानुर्जनक गुरु वियुक्तः शैशवे व्याधितश्च ।
नर पति कुल पूज्यः पिङ्गलः क्रूर चेष्टो झष कुलिश खगाङ्कश्छन्न पापोऽलिजातः ॥ ८॥
व्यादिर्घास्य शिरो धरः पितृ धनस्त्यागी कविर्वीर्यवान् वक्ता स्थूलरद श्रवोऽधर नसः कर्मोद्यतः शिल्पवित् ।
कुब्जांशः कुनखी समांसल भुजः प्रागल्भवान् धर्मविद् बन्धु द्विट् न बलात् समैति च वंश साम्नैक साध्योऽश्वजः ॥ ९॥
नित्यं लालयति स्वदार तनयान् धर्मध्वजोऽधः कृशः स्वक्षः क्षाम कटिर्गृहीत वचनः सौभाग्ययुक्तोऽलसः ।
शीतालुर्मनुजोऽटनश्च मकरे सत्वाधिकः काव्य कृल् लुब्धोऽगम्य जराङ्गनासु निरतः सन्त्यक्त लज्जोऽघृणः ॥ १०॥
करभ गलः शिरालुः खर लोमशदीर्घ तनुः पृथु चरणोरु पृष्ठ जघनास्य कटिर्जरठः ।
पर वनितार्थ पाप निरतः क्षय वृद्धि युतः प्रिय कुसुमानुलेपन सुहृद् घटजोऽध्व सहः ॥ ११॥
जल परधन भोक्तादार वासोऽनुरक्तः समरुचिर शरीरस्तुङ्ग नासो बृहत्कः ।
अभिभवति स पत्नान् स्त्री जितश्चारु द्ऱ्ष्टिर्द्युति निधि धन भोगी पण्डितश्चान्त्यराशौ ॥ १२॥
बलवति राशौ तदधिपतौ च स्व बलयुतः स्याद् यदि तुहिनांशुः ।
कथित कलानाम् अविकलदाता शशिवद् अतोऽन्येत्यनुपरिचिन्त्याः ॥ १३॥