Brihat Jataka - Chapter 24

Brihat Jataka - Chapter 24 #

चतुर्विंशोऽध्यायः
स्त्रीजातक

यद् यत् फलं नर भवे क्षमम् अङ्गनानां तत् तद्वदेत् पतिषु वा सकलं विधेयम् ।
तासां तु भर्तृ मरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥ १॥

युग्मेषु लग्न शशिनोः प्रकृति स्थिता स्त्री सच्छील भूषणयुता शुभदृष्टयोश्च ।
ओजस्थयोश्च मनुजाक्ऱ्ति शीलयुक्ता पापा च पापयुतेक्षितयोर्गुणोना ॥ २॥

कन्याइवदुष्टा व्रजतीहदास्यं साध्वी स माया कुचरित्रयुक्ता ।
भूम्यात्मजऋक्षे क्रमशोऽंशकेषु वक्रार्कि जीवेन्दुज भार्गवानम् ॥ ३॥

दुष्टा पुनर्भूः स गुणा कलाज्ञा ख्याता गुणैश्चासुर पूजितऋक्षे ।
स्यात् कापटी क्लीब समा सती च बौधे गुणाढ्या प्रविकीर्णकामा ॥ ४॥

स्व च्छन्दा पति घातिनी बहु गुणा शिल्पिन्यसाध्वीन्दु भे ।
न्राचारा कुलटार्क भे नृप वधूः पुंश्चेष्टितागम्यगा ।
जैवेनैकगुणाल्परत्यतिगुणा विज्ञानयुक्ता सती ।
दासी नीचरतार्कि भे पति रतादुष्टा प्रजा स्वांशकैः ॥ ५॥

शशि लग्न समायुक्तैः फलं त्रिंशांशकैरिदम् ।
बलाबल विकल्पेन तयोरुक्तं विचिन्तयेत् ॥ ६॥

दृक् संस्थावसित सितौ परस्परांशे शौक्रे वा यदि घटराशि सम्भवोऽंशः ।
स्त्रीभिः स्त्री मदन विषानल प्रदीप्तं संशान्तिं नयति नराकृति स्थिताभिः ॥ ७॥

शून्ये कापुरुषो बले अस्त भवने सौम्य ग्रहावीक्षिते क्लीवोऽस्ते बुध मन्दयोश्चर गृहे नित्यं प्रवासान्वितः ।
उत्सृष्टारविणा कुजेन विधवा वाल्ये अस्तराशि स्थिते कन्याइवाशुभ वीक्षिते अर्क तनये द्यूने जरां गच्छति ॥ ८॥

आग्नेयैर्विधवास्तराशि सहितैर्मिश्रैः पुनर्भूर्भवेत् क्रूरे हीन बले अस्तगे स्व पतिना सौम्येक्षिते प्रोज्झिता ।
अन्योन्यांशगयोः सितावनिजयोरन्य प्रसक्ताङ्गना द्यूने वा यदि शीतरश्मि सहितौ भर्तुस्तदानुज्ञया ॥ ९॥

सौरारऋक्षे लग्नगे सेन्दु शुक्रे मत्रा सार्द्धं बन्धकी पापदृष्टे ।
कौजे अस्तांशे सौरिणा व्याधि योनिश्चारु श्रोणी वल्लभा सद् ग्रहांशे ॥ १०॥

वृद्धो मूर्खः सूर्यजऋक्षे अंशके वा स्त्री लोलः स्यात् क्रोधनश्चावनेये ।
शौक्रे कान्तोऽतीव सौभाग्ययुक्तो विद्वान् भर्ता नैपुण ज्ञश्च बौधे ॥ ११॥

मदन वश गतो मृदुश्च चान्द्रे त्रि दश गुरौ गुणवान् जितेन्द्रियश्च ।
अतिमृदु रति कर्म कृच्च सौर्ये भवति गृहे अस्तमय स्थिते अंशके वा ॥ १२॥

ईर्ष्यान्विता सुख परा शशि शुक्र लग्ने ज्ञेन्द्वोः कलासु निपुणा सुखिता गुणाढ्या ।
शुक्र ज्ञयोस्तु रुचिरा सुभगा कलाज्ञा त्रिष्वप्यनेक वसु सौख्य गुणा शुभेषु ॥ १३॥

क्रूरे अष्टमे विधवता निधनेश्वरोऽंशे यस्य स्थितो वयसि तस्य समे प्रदिष्टा ।
सत् स्वर्थगेषु मरणं स्वयम् एव तस्याः कन्यालिगो हरिषु चाल्प सुतत्वम् इन्दौ ॥ १४॥

सौरे मध्य बले बलेनरहितैः शीतांशु शुक्रेन्दुजैः शेषैर्वीर्य समन्वितैः परुषिणी यद्योजराश्युद्गमः ।
जीवार स्फुजि दैन्दवेषु बलिषु प्राग् लग्नराशौ समे विख्याता भुवि नैक शास्त्र निपुणा स्त्री ब्रह्म वादिन्यपि ॥ १५॥

पापे अस्ते नवम गत ग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन ।
उद्वाहे वरण विधौ प्रदान काले चिन्तायाम् अपि सकलं विधेयम् एतत् ॥ १६॥