Brihat Jataka - Chapter 01 # ॥ वराहमिहीरस्य बृहज्जातक ॥ # प्रथमोऽध्यायः # राशि प्रभेद # मूर्तित्वे परिकल्पितः शश भृतो वर्त्मापुनर्जन्मनामात्मेत्यात्म
विदां क्रतुश्च यजतां भर्तामर ज्योतिषाम् ।
लोकानां प्रलयोद्भवस्थिति विभुश्चानेकधायः श्रुतौ
वाचं नः सददात्वनेक किरणस्त्रैलोक्यदीपो रविः ॥ १॥
भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये
शब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेष्वपि ।
होरातन्त्र महार्णव प्रतरणे भग्नोद्यमानाम् अहं
स्वल्पं वृत्त विचित्रम् अर्थ बहुलं शास्त्र प्लवं प्रारभे ॥ २॥
होरेत्यहो रात्र विकल्पम् एके वाञ्छन्ति पूर्वापर वर्ण लोपात् ।
...
Brihat Jataka - Chapter 02 # द्वितीयोऽध्यायः
ग्रह भेद
कालात्मादिन कृन् मनस्तुहिनगुः सत्वं कुजो ज्ञो वचो
जीवो ज्ञान सुखे सितश्च मदनो दुःखं दिनेशात्मजः ।
राजानौ रवि शीतगू क्षित सुतो नेता कुमारो बुधः सूरिर्दानव पूजितश्च सचिवौ प्रेष्यः सहस्रांशुजः ॥ १॥
हेलिः सूर्यश्चन्द्रमाः शीतरश्मिर्हेम्नो विज् ज्ञो बोधनश्चेन्दु पुत्रः ।
आरो वक्रः क्रूरदृक् चावनेयः कोणो मन्दः सूर्य पुत्रोऽसितश्च ॥ २॥
जीवोऽङ्गिराः सुर गुरुर्वचसां पतीज्यः शुक्रो भृगुर्भृगुसुतः सितास्फुजिच्च ।
राहुस्तमोऽगुरसुरश्च शिखीति केतुः पर्यायम् अन्यम् उपलभ्य वदेच्च लोकात् ॥ ३॥
...
Brihat Jataka - Chapter 03 # तृतीयोऽध्यायः
वियोनिजन्म
क्रूर ग्रहैः सुबलिभिर्विबलैश्च सौम्यैः क्लीबे चतुष्टय गते तदवेक्षणाद् वा ।
चन्द्रोपग द्वि रस भाग स मानरूपं सत्वं वदेद् यदि भवेत् स वियोनि सञ्ज्ञः ॥ १॥
पापा बलिनः स्व भागगाः पारक्ये विबलाश्च शोभनाः ।
लग्नं च वियोनि सञ्ज्ञकं दृष्ट्वात्रापि वियोनिम् आदिशेत् ॥ २॥
क्रियः शिरो वक्र गले वृषोऽन्ये पादांशकं पृष्ठम् उरोऽथ पार्श्वे ।
कुक्षिस्त्वपानाङ्घ्र्याथ मेढ्र मुष्कौ स्फिक् पुच्छम् इत्याह चतुष्पदाङ्गे ॥ ३॥
...
Brihat Jataka - Chapter 04 # चतुर्थोऽध्यायः
निषेका
कुजेन्दु हेतुः प्रतिमासम् आर्तवं गते तु पीडऋक्षम् अनुष्णदिधितौ ।
अतोऽन्यथास्थे शुभ पुङ्ग्रहेक्षिते नरेण संयोगम् उपैति कामिनी ॥ १॥
यथास्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुन प्रयोगः ।
असद् ग्रहालोकित संयुते अस्ते सरोषेष्टैः स विलास हासः ॥ २॥
रवीन्दु शुक्रावनिजैः स्वभागगैर्गुरौ त्रिकोणोदय संस्थितेऽपि वा ।
भवत्यपत्यं हि विबीजिनाम् इमे करा हिमांशोर्विदृशाम् इवाफलाः ॥ ३॥
दिवाकरेन्द्वोः स्मरगौ कुजार्कजौ गद प्रदा पुङ्गलयोषितोस्तदा ।
व्यय स्वगौ मृत्युकरौ युतौ तथा तदेकदृष्ट्या मरणाय कल्पितौ ॥ ४॥
...
Brihat Jataka - Chapter 05 # पञ्चमोऽध्याय
जन्मविधि
पितुर्जातः परोक्षस्य लग्नम् इन्दावपश्यति ।
विदेशस्थस्य चर भे मध्याद् भ्रष्टे दिवा करे ॥ १॥
उदयस्थेऽपि वा मन्दे कुजे वास्तं समागते
स्थिते वान्तः क्षपा नाथे शशाङ्क सुत शुक्रयोः ॥ २॥
शशाङ्के पाप लग्ने वा वृश्चिकेश त्रि भागगे ।
शुभैः स्वाय स्थितैर्जातः सर्पस्तद्वेष्टितोऽपि वा ॥ ३॥
चतुष्पाद गते भानौ शेषैर्वीर्य समन्वितैः ।
द्वि तनुस्थैश्च यमलौ भवतः कोश वेष्टितौ ॥ ४॥
छागे सिंहे वृषे लग्ने तत्स्थे सौरे अथ वा कुजे ।
...
Brihat Jataka - Chapter 06 # षष्टोऽध्यायः
अरिष्ट
सन्ध्यायां हिम दीधिति होरा पापैर्भान्त गतैर्निधनाय ।
रत्येकं शशि पाप समेतैः केन्द्रैर्वा स विनाशम् उपैते ॥ १॥
चक्रस्य पूर्वापर भागगेषु क्रूरेषु सौम्येषु च कीट लग्ने ।
क्षिप्रं विनाशं समुपैति जातः पपैर्विलग्नास्तमयाभितश्च ॥ २॥
पापावुदयास्त गतौ क्रूरेणयुतश्च शशी ।
दृष्टश्च शुभैर्न यदा मृत्युश्च भवेद् अचिरात् ॥ ३॥
क्षीणे हिमगौ व्ययगौ पापैरुदयाष्टमगैः ।
केन्द्रेषु शुभाश्च न चेत् क्षिप्रं निधनं प्रवदेत् ॥ ४॥
क्रूरेण संयुतः शशी स्मरान्त्य मृत्यु लग्नगः ।
...
Brihat Jataka - Chapter 07 # सप्तमोऽध्यायः
आयुर्दाय
मय यवन मणित्थ शक्ति पूर्वैर्दिवस करादिषु वत्सराः प्रदिष्टाः ।
नव तिथि विषयाश्वि भूतरुद्रदश सहिता दशभिः स्व तुङ्ग भेषु ॥ १॥
नीचे अतोऽर्धं ह्रसति हि ततश्चान्तरस्थे अनुपातो होरा त्वंश प्रतिमम् अपरे राशि तुल्यं वदन्ति ।
हित्वा वक्रं रिपु ग्रह गतैर्हीयते स्व त्रि भागः सूर्योच्छिन्नद्युतिषु
च दलं प्रोजिह्य शुक्रार्क पुत्रौ ॥ २॥
सर्वार्ध त्रि चरण पञ्च षष्ट भागाः क्षीयन्ते व्यय भवनाद् असत्सु वामम् ।
...
Brihat Jataka - Chapter 08 # अष्टमोऽध्यायः
दशान्तर्दशा
उदयरवि शशाङ्क प्राणि केन्द्रादि संस्थाः ।
प्रथम वयसि मध्ये अन्त्ये च दद्युः फलानि ।
न हि न फल विपाकः केन्द्र संस्थाद्य भावे भवति हि फल पक्तिः पूर्वम् आपोक्लिमे अपि ॥ १॥
आयुः कृतं येन हि यत् तदेव कल्प्या दश सा प्रबलस्य पूर्वाम् ।
साम्ये बहूनां बहु वर्षदस्य तेषां च साम्ये प्रथमोदितस्य ॥ २॥
एकऋक्षगोऽर्धम् अपहृत्य ददाति तु स्वं त्र्यंशं त्रिकोण गृहगः स्मरगः स्वरांशम् ।
...
Brihat Jataka - Chapter 09 # नवमोऽध्यायः
अष्टकवर्ग
स्वाद् अर्कः प्रथमाय बन्धु निधन द्व्याज्ञा तपो द्यूनगो वक्रात्
स्वाद् इव तद्वद् एवरविजाच्छुक्रात् स्मरान्त्यारिषु ।
जीवाद् धर्म सुताय शत्रुषु दश त्र्यायारिगः शीतगोरेष्वेवान्त्य
तपः सुतेषु च बुधाल् लग्नात् स बन्ध्वन्त्यगः ॥ १॥
लग्नात् षट् त्रि दशायगः स धन धी धर्मेषु चाराच्छशी स्वात्
सास्तादिषु साष्ट सप्तसु रवेः षट् त्र्याय धीस्थो यमात् ।
धी त्र्यायाष्टम कण्टकेषु शशिजाज् जीवाद् व्ययायाष्टगः केन्द्रस्थश्च
सितात् तु धर्म सुखधी त्र्यायास्पदानङ्गगः ॥ २॥
...
Brihat Jataka - Chapter 10 # दशमोऽध्यायः
कर्माजीव
अर्थाप्तिः पितृ पितृ पत्नि शत्रु मित्र भ्रातृ स्त्री मृतक जनाद् दिवाकराद्यैः ।
होरेन्द्वोर्दशम गतैर्विकल्पनीया भेन्द्वर्कास्पद पतिगांश नाथ वृत्त्या ॥ १॥
अर्कांशे तृण कनकार्ण भेषजाद्यैश्चन्द्रांशे कृषि जलजाङ्गनाश्रयाच्च ।
धात्वग्नि प्रहरण साहसैः कुजांशे सौम्यांशे लिपि गणितादि काव्य शिल्पैः ॥ २॥
जीवांशे द्विज विबुधाकरादि धर्मैः काव्यांशे मणि रजतादि गो महिष्यैः ।
सौरांशे श्रम वध भार नीच शिल्पैः कर्मेशाध्युषित नवांश कर्म सिद्धिः ॥ ३॥
मित्रारि स्व गृह गतैर्ग्रहैस्ततोऽर्थं तुङ्गस्थे बलिनि च भास्करे स्व वीर्यात् ।
...