Brihat Jataka - Chapter 21 # एकविंशोऽध्यायः
आश्रययोग
कुल सम कुल मुख्य बन्धु पूज्याधनि सुखि भोगि नृपाः स्व भैक वृद्ध्या ।
पर विभव सुहृत् स्व बन्धु पोष्या गणप बलेश नृपाश्च मित्र भेषु ॥ १॥
जनयति नृपम् एकोऽप्युच्चगो नित्रदृष्टः प्रचुरधन समेतं मित्रयोगाच्च सिद्धम् ।
विधन विसुख मूढ व्याधितो बन्ध तप्तो वधदुरित समेतः शत्रु नीचऋक्षगेषु ॥ २॥
न कुम्भ लग्नं शुभम् आह सत्यो न भाग भेदाद् यवना वदन्ति ।
कस्यांश भेदो न तथास्ति राशेरतिप्रसङ्गस्त्विति विष्णु गुप्तः ॥ ३॥
...
Brihat Jataka - Chapter 22 # द्वाविंशोऽध्यायः
प्रकीर्णक
स्वऋक्ष तुङ्ग मूल त्रिकोणगाः कण्टकेषु यावन्ताश्रिताः ।
सर्वैव ते अन्योन्य कारकाः कर्मगस्तु तेषां विशेषतः ॥ १॥
कर्कटोदय गते यथोडुपे स्वोच्चगाः कुजयमार्क सूरयः ।
कारका निगदिताः परस्परं लग्नगस्य सकलोऽम्बराम्बुगः ॥ २॥
स्व त्रिकोणोच्चगो हेतुरन्योन्यं यदि चर्मगः ।
सुहृत् तद्गुण सम्पन्नः कारकश्चापि स स्मृतः ॥ ३॥
शुभं वर्गोत्तमे जन्म वेशि स्थाने च सद् गृहे ।
अशून्येषु च केन्द्रेषु कारकाख्य ग्रहेषु च ॥ ४॥
...
Brihat Jataka - Chapter 23 # त्रयोविंशोऽध्यायः
अनिष्ट
लग्नात् पुत्र कलत्र भे शुभ पति प्राप्ते अथ वालोकिते चन्द्राद् वा यदि सम्पद् अस्ति हि तयोर्ज्ञेयोऽन्यथा सम्भवः ।
पाथोनोदयगे रवौ रवि सुतो मीन स्थितो दारहा पुत्र स्थान गतश्च पुत्र मरणं पुत्रोऽवनेर्यच्छति ॥ १॥
उग्र ग्रहैः सित चतुरस्र संस्थितैर्मध्य स्थिते भृगु तनये अथ वा उग्रयोः ।
सौम्य ग्रहैरसहित संनिरीक्षिते जाया वधो दहन निपात पाशजः ॥ २॥
लग्नाद् व्ययारि गतयोः शशि तिग्मरश्म्योः पत्न्या सहैक नयनस्य वदन्ति जन्म ।
...
Brihat Jataka - Chapter 24 # चतुर्विंशोऽध्यायः
स्त्रीजातक
यद् यत् फलं नर भवे क्षमम् अङ्गनानां तत् तद्वदेत् पतिषु वा सकलं विधेयम् ।
तासां तु भर्तृ मरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥ १॥
युग्मेषु लग्न शशिनोः प्रकृति स्थिता स्त्री सच्छील भूषणयुता शुभदृष्टयोश्च ।
ओजस्थयोश्च मनुजाक्ऱ्ति शीलयुक्ता पापा च पापयुतेक्षितयोर्गुणोना ॥ २॥
कन्याइवदुष्टा व्रजतीहदास्यं साध्वी स माया कुचरित्रयुक्ता ।
भूम्यात्मजऋक्षे क्रमशोऽंशकेषु वक्रार्कि जीवेन्दुज भार्गवानम् ॥ ३॥
दुष्टा पुनर्भूः स गुणा कलाज्ञा ख्याता गुणैश्चासुर पूजितऋक्षे ।
...
Brihat Jataka - Chapter 25 # पञ्चविंशोऽध्यायः
नैर्याणिक
मृत्युर्मृत्यु गृहेक्षणेन बलिभिस्तद्धातु कोपोद्भवस्तत् संयुक्त भ गात्रजो बहु भवो वीर्यान्वितैर्भूरिभिः ।
अग्न्यम्ब्वायुधजो ज्वरामय कृतस्तृट् क्षुत् कृतश्चाष्टमे सूर्याद्यैर्निधने चरादिषु पर स्वाध्व प्रदेशेष्विति ॥ १॥
शैलाग्राभिहतस्य सूर्य कुजयोर्मृत्युः ख बन्धुस्थयोः कूपे मन्द शशाङ्क भूमि तनयैर्बन्ध्वस्त कर्म स्थितैः ।
कन्यायां स्व जनाद् धिमोष्ण करयोः पाप ग्रहैर्दृष्टयोः स्यातां यद्युभयोदये अर्क शशिनौ तोये तदा मज्जितः ॥ २॥
मन्दे कर्कटगे जलोदर कृतो मृत्युर्मृगाङ्के मृगे शस्त्राग्नि प्रभवः शशिन्यशुभयोर्मध्ये कुज ऋक्षे स्थिते ।
...
Brihat Jataka - Chapter 26 # षड्विंशोऽध्यायः
नष्टजातक
आधान जन्मापरिबोध काले सम्पृच्छतो जन्म वदेद् विलग्नात् ।
पूर्वापरार्धे भवनस्य विन्द्याद् भानावुदग् दक्षिणगे प्रसूतिम् ॥ १॥
लग्न त्रिकोणेषु गुरुस्त्रि भागैर्विकल्प्य वर्षाणि वयोऽनुमानात् ।
ग्रीष्मोऽर्क लग्ने कथितास्तु शेषैरन्यायनर्तावृतुरर्क चारात् ॥ २॥
चन्र ज्ञ जीवाः परिवर्तनीयाः शुक्रार मन्दैरयने विलोमे ।
द्रेष्काण भागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्विकल्प्यः ॥ ३॥
अत्रापि होरा पटवो द्विजेन्द्राः सूर्यांश तुल्यां तिथिम् उद्दिशन्ति ।
रात्रि द्यु सञ्ज्ञेषु विलोम जन्म भागैश्च वेलाः क्रमशो विकल्प्याः ॥ ४॥
...
Brihat Jataka - Chapter 27 # सप्तविंशोऽध्यायः
द्रेष्काण स्वरूप
कट्यां सित वस्त्र वेष्टितः कृष्णः शक्तेवाभिरक्षितुम् ।
रौद्रः परशुं समुद्यतं धत्ते रक्त विलोचनः पुमान् ॥ १॥
रक्तम् अम्बरा भूषण भक्ष्य चिन्ता कुम्भाकृतिर्वाजि मुखी तृषार्ता ।
एकेन पादेन च मेष मध्ये द्रेष्काणरूपं यवनोपदिष्टम् ॥ २॥
क्रूरः कलाज्ञः कपिलः क्रियार्थी भग्न व्रतोऽभ्युद्य तदण्ड हस्तः ।
रक्तानि वस्त्राणि बिभर्ति चण्डो मेषे तृतीयः कथितस्त्रि भागः ॥ ३॥
कुञ्चित लून कचा घटदेहादग्ध पटा तृषिताशन चित्ता ।
...
Brihat Jataka - Chapter 28 # अष्टाविंशोऽध्यायः
उपसंहार
राशि प्रभेदो ग्रहयोनि भेदो वियोनि जन्माथ निषेक कालः ।
जन्माथ सद्यो मरणं तथायुर्दशा विपाकोऽष्टक वर्ग सञ्ज्ञः ॥ १॥
कर्माजीवो राजयोगाः खयोगाश्चान्द्रा योगाद् विग्रहाद्याश्च योगाः ।
प्रव्रजाथो राशि शीलानि द्ऱ्ष्टिर्भावस्तस्माद् आश्रयोऽथ प्रकीर्णः ॥ २॥
नेष्टा योगा जातकं कामिनीनां निर्याणं स्यान् नेष्ट जन्मदृकाणः ।
अध्यायानां विंशतिः पञ्च युक्ता जन्मन्येतद् यात्रिकं चाभिधास्ये ॥ ३॥
प्रश्नास्तिथिर्भं दिवसः क्षणश्च चन्द्रो विलग्नं त्वथ लग्न भेदः ।
शुद्धिर्ग्रहाणाम् अथ चाप वादो विमिश्रकाख्यं तनु वेपनं च ॥ ४॥
...